February 27, 2009

श्री गणपति स्तोत्रं .





।। संकट-नाशन-गणेश-स्तोत्रं ।।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ।

भक्तावासं स्मरेन्नित्यं आयुष कामार्थ सिद्धये । । १ । ।

प्रथमं वक्र-तुंडं च एकदंतं द्वितीयकं ।

तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकं । । २ । ।

लम्बोदरं पंचमं च षष्टम विकटमेव च ।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं । । ३। ।

नवमं भालचंद्रं च दशमं तु विनायकं ।

एकादशं भालचंद्रं द्वादशं तू गजाननं । । ४ । ।

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।

च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो । । ५। ।

विद्यार्थी लभते विद्यां धनार्थी लभते धनं ।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिं । । ६ । ।

जपेत् गणपति-स्तोत्रं षट्भिः मासैः फलं लभेत ।

संवत्सरेण सिद्धिं च लभेत् नात्र संशयः । । ७ । ।

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः । । ८। ।

। । इति श्रीनारदपुराणे संकट-नाशन-गणेश स्तोत्रं । ।

********************************************************

2 comments:

  1. ha atlast very happy to see the stotra. Very nice Vinay Good job. May lord ganesha bless you with happiness and prosperity

    Nandita

    ReplyDelete
  2. Thanks, At last Lord blessed you.
    -Vinay.

    ReplyDelete