Showing posts with label स्तोत्रं .. Show all posts
Showing posts with label स्तोत्रं .. Show all posts

November 26, 2014

॥ अज्ञातपथगामिन् कोऽपि ॥


A Hindi Poem by Anuj Agrawal and its Sanskrit rendering by me :
--
समय की डुगडुगी बजाते बढ़ता जाता है
अज्ञात पगडंडियों से गुज़रता
अपने चिन्ह छोड़ जाता है
पर वो नज़र नहीं आता
देखने वालों को बस रास्ता नज़र आता है ।
सारे चिन्ह उसका पीछा करते हैं
वो हमेशा आगे चलता है
पर कहीं नहीं पहुंचता
कहीं नहीं जाता
उस तक पहुँचने वालों का इंतज़ार करता है ।
उसकी छोड़ी गयी मुस्कुराहट संसार है भूल भुलैया
हर कोई उस में खोया रहता है
वो कोई वजह नहीं बताता
गम्भीर मुद्रा में सोया रहता है
वो समझ नहीं आता
उसकी मुस्कान का रहस्य
कोई उस सा मुस्कुराने वाला ही जान पाता है !
अ से
--
॥ अज्ञातपथगामिन्  कोऽपि  ॥
_______________________

डमड्डमड्डमड्डमयन् महाकालो
अग्रे सरति नादयन् काल-ढक्काम्
गच्छति अज्ञातचरणपथैः
स्थापयन् त्यक्त्वा निज पद चिह्नान्।
न दृश्यते अपि अन्यान्
अवलोकयन्ति  ते पथमेव तस्य।
येन अनुगच्छति कोऽपि सः.
चिह्नान् सर्वान् अनुसरन्ति  ते तदपि
सैव गच्छति अग्रे सर्वेषाम्।
न पर्याप्नोति लक्ष्यम् कमपि
न च गच्छति कुत्रापि
अपि ईक्षते-प्रति पथमागन्तुकानाम्
ये प्रपद्यन्ते पथम् तस्य।
तस्य स्मितम् हि  लोको
स्मृतिविस्मृतिविभ्रमो
जनाः विस्मृताः तस्मिन्
न वदति सः किमर्थम्।
स्वपिति गभीरामुद्रया ध्यानस्थ सः
न कोऽपि अभिजानाति
गूढ़ो हि तस्य  मर्मम्।
तदपि कोऽपि विरलो
विहसिते तस्य सदृशः
विजानाति सः अवश्यः
कोऽपि एव तस्य तुल्यः ॥
--        


     

November 02, 2014

आज की कविता /02 /11 /2014 अय्ये अति दुर्लभा भक्तिः ॥

आज की कविता /02 /11 /2014 
___________________________
***************************
--©

अद्यरचिता संस्कृता रचना 
अय्ये अति दुर्लभा भक्तिः, ....
__

अय्ये अति दुर्लभा भक्तिः, ....
अतिदुर्लभं खलु नरजन्म,
ततो हि विप्रत्वम् द्विजत्वमपि ।
ततो दुःखदर्शनम् जगति
अस्मिनशाश्वति दुःखालये ॥

अय्ये अति दुर्लभा भक्तिः, ....

तदपि ईशानुग्रहेण कोऽपि
भवति समर्थोऽस्मिन् ।
विचिन्तयति तत्त्वम् 
स्वरूपमात्मनः जगतश्च ॥

अय्ये अति दुर्लभा भक्तिः, ....

केचिदिच्छन्ति रूपम्
केचिदिच्छन्ति शक्तिम् ।
केचिद्धनमपि सुखञ्च
विरलो हि कोऽपि भक्तिम् ॥

अय्ये अति दुर्लभा भक्तिः, ....

त्यजति नरो गृहम् 
निजपरिवारम् धनञ्च ।
स्वमित्वमपि जगति 
न  कोऽपि त्यजति व्यक्तिम् ॥ 

अय्ये अति दुर्लभा भक्तिः, ....

सत्यम् न त्यज्यमानः 
कुटिलो अहं-सङ्कल्पो ।
न  कोऽपि जानाति कथं वा 
सङ्कल्पमिमम् त्यक्तम्  ॥
अय्ये अति दुर्लभा भक्तिः, ....

परं तु यदा जानाति 
सङ्कल्पदू:ख मूलम् ।
अयि पतत्यहं तूर्तम्
क्षिप्रम् हि भजेदीशम् ॥

अय्ये अति दुर्लभा भक्तिः, ....

अर्पयनात्मनम् स्वाम् 
प्राप्नोति तस्य भक्तिम् ।
विन्दति स्वात्मनिष्ठाम् 
विन्दति श्रीहरिम् सः  

अय्ये अति दुर्लभा भक्तिः, ....
-- 

December 25, 2013

॥ शिवाथर्वशीर्षम् ॥

॥ शिवाथर्वशीर्षम् ॥*
_____________________
आवश्यक सूचना :
_________________
यह पाठ अभी पुनरीक्षित किया जाना है । इसलिए अभी कुछ त्रुटियाँ होना संभव हैं ।
निवेदन है कि सावधानीपूर्वक इसका अध्ययन-पाठ आदि करें।  बिना श्रद्धा और अशुद्ध मन बुद्धि देह से, प्रमादयुक्त सिर्फ कौतुहलवश किया जानेवाला अध्ययन या पाठ व्यर्थ और अनर्थकारी भी हो सकता है।
इसे सिर्फ जानकारी हेतु पोस्ट किया जा रहा है । पुनरीक्षण और त्रुटियों के शोधन हो जाने के बाद इस सूचना को हटा दिया जाएगा ।
इति  ॥ शुभम्  भवतु ॥
--

~~~~ शान्तिपाठ~~~~~
*********************
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवान्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
______________________________________
______________________________________
ॐ शान्तिः ! शान्तिः !! शान्तिः !!
______________________________________

ॐ देवा ह वै स्वर्गं लोकमायँस्ते रुद्रमपृच्छन्को भवानिति ।
सोऽब्रवीदहमेकः प्रथममास वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ।
सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं गुह्योऽहमरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहमुग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः स मां यो मां वेद स सर्वान् देवान् वेद सर्वांश्च वेदान् साङ्गानपि ब्रह्मब्राह्मणैश्च गां गोभिर्ब्राह्मणान्ब्राह्मणेन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा ।
ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् ।
ते देवा रुद्रमध्यायन् ।
ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥१॥
ॐ यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।१।
यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ।२।
यो वै रुद्रः स भगवान् यश्च स्कन्दस्तस्मै वै नमो नमः ।३।
यो वै रुद्रः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः ।४।
यो वै रुद्रः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः ।५।
यो वै रुद्रः स भगवान् यश्चवायुस्तस्मै वै नमो नमः ।६।
यो वै रुद्रः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः ।७।
यो वै रुद्रः स भगवान् यश्च सोमस्तस्मै वै नमो नमः ।८।
यो वै रुद्रः स भगवान् ये चाष्टौग्रहास्तस्मै वै नमो नमः ।९।
यो वै रुद्रः स भगवान् ये चाष्टौ प्रतिग्रहास्तस्मै वै नमो नमः ।१०।
यो वै रुद्रः स भगवान् यच्च भूस्तस्मै वै नमो नमः ।११।
यो वै रुद्रः स भगवान् यच्च भुवस्तस्मै वै नमो नमः ।१२।
यो वै रुद्रः स भगवान् यच्च स्वस्तस्मै वै नमो नमः ।१३।
यो वै रुद्रः स भगवान् यच्च महस्तस्मै वै नमो नमः ।१४।
यो वै रुद्रः स भगवान् या च पृथिवी तस्मै वै नमो नमः ।१५।
यो वै रुद्रः स भगवान् यच्चान्तरिक्षं तस्मै वै नमो नमः ।१६।
यो वै रुद्रः स भगवान् या च द्यौस्तस्मै वै नमो नमः ।१७।
यो वै रुद्रः स भगवान् याश्चापस्तस्मै वै नमो नमः ।१८।
यो वै रुद्रः स भगवान् यच्च तेजस्तस्मै वै नमो नमः ।१९।
यो वै रुद्रः स भगवान् यश्च कालस्तस्मै वै नमो नमः ।२०।
यो वै रुद्रः स भगवान् यश्च यमस्तस्मै वै नमो नमः ।२१।
यो वै रुद्रः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः ।२२।
यो वै रुद्रः स भगवान् यच्चामृतं तस्मै वै नमो नमः ।२३।
यो वै रुद्रः स भगवान् यच्चाकाशं तस्मै वै नमो नमः ।२४।
यो वै रुद्रः स भगवान् यच्च विश्वं तस्मै वै नमो नमः ।२५।
यो वै रुद्रः स भगवान् यच्च स्थूलं तस्मै वै नमो नमः ।२६।
यो वै रुद्रः स भगवान् यच्च सूक्ष्मं तस्मै वै नमो नमः ।२७।
यो वै रुद्रः स भगवान् यच्च शुक्लं तस्मै वै नमो नमः ।२८।
यो वै रुद्रः स भगवान् यच्च कृष्णं तस्मै वै नमो नमः ।२९।
यो वै रुद्रः स भगवान् यच्च कृत्स्नं तस्मै वै नमो नमः ।३०।
यो वै रुद्रः स भगवान् यच्च सत्यं तस्मै वै नमो नमः ।३१।
यो वै रुद्रः स भगवान् यच्च सर्वं तस्मै वै नमो नमः ।३२।
भूस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वं । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य । सोमसूर्यपुरस्तात्सूक्ष्मः पुरुषः । सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमो नमः । हृदिस्था देवताः सर्वा हृदि प्राणा प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्रा परस्तु सः । तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यःसर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तच्छुक्लं यच्छुक्लं तत्सूक्षं यत्सूक्षं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः य एकः स रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान् महेश्वरः ॥३॥
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतव्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारम् यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ कस्मादुच्यते शुक्लम् यस्मादुच्चार्यमाण एव  क्लन्दते क्लामयति च तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते सूक्ष्मम् यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म  यस्मात्परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यते एकः यः सर्वान् प्राणान् सम्भक्ष्य सम्भक्ष्येनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाःप्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह संगतिः । साकं स एकोभूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते  रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते ईशानीभिर्जननीभिश्च शक्तिभिः। अभित्वा शूर नोनुमो दुग्धा इव धेनवः  । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुष इति तस्मादुच्यते ईशानः । अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ताञ्ज्ञानेन भजत्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतद्रुद्रचरितम् ॥४॥
एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनिमधितिष्ठत्येको येनेदं सर्वं विचरति सर्वम् । तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । शाश्वतं वै पुराणमिषमूर्जेण पशवोऽनुनामयन्तं मृत्युपाशान् । तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजति पशुपाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्तावर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्रह्मपदम् । या सा द्वितीयामात्रा विष्णुदेवत्या कृष्णावर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिलावर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थीमात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदमनामयम् । तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यं । तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिर्भवतिनेतरेषाम् । यस्मिन् क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं-ह वा इदं भस्म मन एतानि चक्षूंषि यस्माद् व्रतमिदं पाशुपतं यद् भस्म नाङ्गानि संस्पृशेत्तस्माद् ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षाणाय ॥५॥
योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये । यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो रुद्र ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय वै नमो नमः । यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु । येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी  द्विधा त्रिधा धर्ता धारिता नागा ये अन्तरिक्षे तस्मै रुद्राय वै नमो नमः ।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् । मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः । तद्वा अथर्वणः शिरो देवकोशः समुज्झितः । तत् प्राणोऽभिरक्षति शिरोऽन्तमथो मनः । न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूमा इमाः । यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति । न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् । सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमारीवर्ति भूतम् । अक्षरात् सञ्जायते कालः कालाद् व्यापक उच्यते । व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रस्तदा संहार्यते प्रजाः । उच्छ्वसिते तमो भवति तमस आपोऽस्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद् ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कार ॐकारात् सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्-ध्रुवम् । एतद्धि परमं तपः आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति ॥६॥
य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति  स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति प्रणवानामयुतं जप्तं भवति । स चक्षुषः पङ्क्तिं पुनाति । आ सप्तमात् पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति । द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति । तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम् ॥७॥
इत्युपनिषद् ॥
____________________________________

~~~~ शान्तिपाठ~~~~~
***************************
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवान्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
______________________________________
______________________________________
ॐ शान्तिः ! शान्तिः !! शान्तिः !!
________________________________
*उपरोक्त को यहाँ सुनें