February 23, 2013
August 28, 2012
January 24, 2012
स्वरचित श्री गणेश स्तुति
गतिं प्राप्यते जयं चापि तव दर्शनेन गजमुख !!
तव वाचको हि प्रणवो निगदतीति पतञ्जलिः
तदपि महिम्नं अपारं तव न जानेऽहं सम्यक्तया ।
एकाक्षर हे शुण्डिमुख ! हे गजमुख हे धुण्डिराज ।
February 27, 2009
श्री गणपति स्तोत्रं .

।। संकट-नाशन-गणेश-स्तोत्रं ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ।
भक्तावासं स्मरेन्नित्यं आयुष कामार्थ सिद्धये । । १ । ।
प्रथमं वक्र-तुंडं च एकदंतं द्वितीयकं ।
तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकं । । २ । ।
लम्बोदरं पंचमं च षष्टम विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं । । ३। ।
नवमं भालचंद्रं च दशमं तु विनायकं ।
एकादशं भालचंद्रं द्वादशं तू गजाननं । । ४ । ।
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो । । ५। ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनं ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिं । । ६ । ।
जपेत् गणपति-स्तोत्रं षट्भिः मासैः फलं लभेत ।
संवत्सरेण सिद्धिं च लभेत् नात्र संशयः । । ७ । ।
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः । । ८। ।
। । इति श्रीनारदपुराणे संकट-नाशन-गणेश स्तोत्रं । ।
********************************************************





