February 06, 2014

एक बिल्वं शिवार्पणं ||

एक बिल्वं शिवार्पणं
_______________
***************

त्रिजन्मपापसंहारं एक बिल्वं शिवार्पणं ॥१॥
त्रिशाखैः बिल्वपत्रैश्च ह्यछिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि एक बिल्वं शिवार्पणं ॥२॥
आकंठ बिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुध्यन्ति सर्व पापेभ्यो एक बिल्वं शिवार्पणं ॥३॥
शालिग्रामशिलामेकं विप्रं यथा च अर्पयेत् ।
सोमयज्ञ महापुण्यं एक बिल्वं शिवार्पणं ॥४॥
दण्डीकोटिसहस्राणि विजपेत् यः शतानि च ।
कोटिकन्या महादानम् एकबिल्वं शिवार्पणं ॥५॥
लक्ष्म्यस्थानुतः उत्पन्नं महादेवस्य च प्रियं ।
बिल्ववृक्षं प्रयाचामि एक बिल्वं शिवार्पणं ॥६॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।
अघोरपापसंहारं एक बिल्वं शिवार्पणं ॥७॥
काशी क्षेत्रनिवासं च कालभैरवदर्शनं ।
प्रयाग माधवं दृष्ट्वा एक बिल्वं शिवार्पणं ॥८॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय एकः बिल्वं शिवार्पणं ॥९॥
बिल्वाष्टकं इदं पुण्यं पठेत् यः शिवसन्निधौ ।
सर्वपापविनिर्मुक्तः शिवलोकमाप्नुयात् ॥१०॥
______________ॐ______________

No comments:

Post a Comment