October 16, 2017

Prajna-Paramita-HRdaysutram ॥ प्रज्ञापारमिता-हृदयसूत्रम् ॥


॥ प्रज्ञापारमिता-हृदयसूत्रम् ॥
_____________________________
**********************************
अथ प्रज्ञापारमिता हृदयसूत्रम् ।
नमः सर्वज्ञाय ।
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायाम् प्रज्ञापारमितायाम् चर्यां चरमाणो, व्यवलोकयति स्म ।
पञ्चस्कन्धाः ।
तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम् रूपान्न पृथक्शून्यता, शून्यताया न पृथग्रूपम्,
यद्रूपम् सा शून्यता, या शून्यता तद्रूपम् ।
एवमेव वेदना-संज्ञा-संस्कार-विज्ञानानि ।
इह शारिपुत्र, सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोन न परिपूर्णाः ।
तस्माच्छारिपुत्र, शून्यतायाम् न रूपम्, न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
न चक्षुः-श्रोतृ-घ्राण-जिह्वा-काया मनांसि । 
न रूप-शब्द-गन्ध-रस-स्प्रष्टव्य धर्माः ।
न चक्षुर्धातुर्यावन्न मनो-विज्ञानधातुः ।
नविद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न ।
जरामरणं न जरा-मरणक्षयो ।
न दुःख-समुदायनिरोधमार्गा न ज्ञानम् न प्राप्तिः ।
न अप्राप्तिः ॥
तस्मादप्राप्तित्वाद्बोधिसत्त्वानाम् प्रज्ञापारमितामाश्रित्य 
विहरत्यचित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासतिक्रान्तो निष्ठनिर्वाणः ॥
त्र्यध्वा-व्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तराम् सम्यक्सम्बोधिमभिसंबुद्धाः ॥
तस्माज्ज्ञातव्यम् प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रोऽनुत्तरमन्त्रोऽशम-शम-मन्त्रः सर्व-दुःख-प्रशमनः ।
सत्यममिथ्यत्वात् ।
प्रज्ञापारमितायामुक्तो मन्त्रः ।
तद्यथा -
गते गते पारगते पारसंगते बोधि स्वाहा ॥

॥ इति प्रज्ञापारमिताहृदयम् समाप्तम् ॥

__________________________________________
******************************************

No comments:

Post a Comment